Skip to content
- गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुर्देवो परं ब्रह्म तस्मै श्रीगुरुवे नमः ॥१॥
- अखण्डमण्डलाकारं व्याप्तम येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥२॥
- अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येनं तस्मै श्रीगुरवे नमः ॥३॥
- स्थावरं जंगमं व्यापकं येन कृत्स्नं चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥४॥
- चिद्रूपेण परिव्याप्तं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥५॥
- सर्वश्रुतिशिरोरत्नस्मुद्भासितमूर्तये ।
वेदान्तम्बूजसूर्याय तस्मै श्रीगुरवे नमः ॥६॥
- चैतन्यः शाश्वतः शांतो व्योमतीतोनिरञ्जनः ।
बिन्दूनादकलातीतस्तस्मै श्रीगुरवे नमः ॥७॥
- अनेकजन्मसम्प्राप्तकर्मेन्धनविदाहिने ।
आत्मञ्जानाग्निदानेन तस्मै श्रीगुरवे नमः ॥९॥
- दुरुपयोगं भवसिंधोश्च प्रापणं सारसम्पदः ।
यस्य पादोडकं सम्यक तस्मै श्रीगुरवे नमः ॥१०॥
- न गुरोरधिकं तत्वं न गुरोरधिकं तपः ।
तत्वज्ञानात परं नास्ति तस्मै श्रीगुरवे नमः ॥११॥
- मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥१२॥
- गुरुरादिर्नादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥१३॥
- ॐ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्धवातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतम्
भवतीतं त्रिगुणरहितं सद्गुरुन्त्वं नमामि ॥१४॥
Go to Top